विद्याभारती E पाठशाला

पठत संस्कृतम्, वदत संस्कृतम्

पठत संस्कृतम्, वदत संस्कृतम्

लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥

ज्ञानवैभवं वेदवाङ्मयं लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।

कीर्तिरार्जिता यस्य प्रणयनात् व्यास-भास-कालिदास-बाण-मुख्यकविभि: ॥१॥

स्थानमूर्जितं यस्य मन्वते वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।

यद्विना जना नैव जानते भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥२॥

जयतु संस्कृतम्, संस्कृतिस्तथा संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।

जयतु संस्कृतम्, जयतु मनुकुलम् जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥३॥

Leave a Reply

Your email address will not be published. Required fields are marked *