विद्याभारती E पाठशाला

कल्ये बुध्यति मम जननी पश्चान्मामपि बोधयति

कल्ये बुध्यति मम जननी पश्चान्मामपि बोधयति ॥

उष्णजलेनाप्लावयति

नववसनं सा परिधारयति ॥ १॥

फाले तिलकं धारयति पुनरक्ष्णोरञ्जनमालिखति ।

सुन्दरकुण्डलयुगलेनाम्बा कर्णद्वयमपि भूषयति ॥ २॥

पात्रे भोजनमानयति

माम् अङ्के दृढमुपवेशयति ।

तत्करनिर्मितमन्नग्रासं

मामकवदने स्थापयति ॥ ३॥

काककथां मां श्रावयति सा

शौनककथया भाययति।

श्रुत्वा रोदितुमुद्युक्ते

मयि गण्डे चुम्बनमर्पयति ॥ ४॥

Leave a Reply

Your email address will not be published. Required fields are marked *