विद्याभारती E पाठशाला

अवनितलं पुनरवतीर्णा स्यात्सं स्कृतगङ्गाधारा

अवनितलं पुनरवतीर्णा स्यात्सं स्कृतगङ्गाधारा

धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा: ॥

निपततु पण्डितहरशिरसि प्रवहतु नित्यमिदं वचसि

प्रविशतु वैयाकरणमुखं पुनरपि वहताज्जनमनसि

पुत्रसहस्रं समुद्धृतं स्यात्यान्तु च जन्मविकारा: ॥

ग्रामं ग्रामं गच्छाम संस्कृतशिक्षां यच्छाम

सर्वेषामपि तृप्तिहितार्थं स्वक्लेशं न हि गणयेम

कृते प्रयत्ने किं न लभेत एवं सन्ति विचारा: ॥

या माता संस्कृतिमूला यस्या व्याप्तिस्सुविशाला

वाङ्मयरूपा सा भवतु लसतु चिरं सा वाङ्माला

सुरवाणीं जनवाणीं कर्तुं यतामहे कृतिशूरा: ॥

Leave a Reply

Your email address will not be published. Required fields are marked *